वाचस्पत्यम्
वसन्तकुसुम || पु० वसन्ते कुसुमं यस्य । सेलुवृक्षे शब्दमा० ।
शब्दकल्पद्रुमः
वसन्तकुसुमः || पुं, (वसन्ते कुसुमं यस्य ।) वृक्ष- विशेषः । यथा, — “वसन्तकुसुमः सेलुः शयितो द्विजकुत्सितः ॥” इति शब्दमाला ॥