वाचस्पत्यम्
वसन्तदूत || पु० वसन्तस्य दूत इव । १ कोकिले २ आम्रवृक्षे २ पञ्चमरागे च विश्वः । ४ माधवीलतायाम् ५ पाटलीवृक्षे स्त्री मेदि० गौ० ङीष् ६ गणिकारिकायां ७ पिक्याञ्च स्त्री ङीष् राजनि० ।
शब्दकल्पद्रुमः
वसन्तदूतः || पुं, (वसन्तस्य दूत इव ।)
आम्रवृक्षः । कोकिलः । पञ्चमरागः । इति विश्वमेदिन्यौ ॥