शब्दकल्पद्रुमः
वसन्तदूती || स्त्री (वसन्तस्य दूतीव ।) पाटली- वृक्षः । माधवीलता । इति मेदिनी । ते, २३३ ॥ गणिकारी । पिकी । इति राजनिर्घण्टः ॥