संस्कृत-शब्दकोशः

वसन्तसख वसा

वसन्तोत्सव

शब्दकल्पद्रुमः

वसन्तोत्सवः || पुं, (वसन्तस्य उत्सवः ।)
फाल- गुनोत्सवः । यथा, —
“फाल्गुन्यां पौर्णमास्यान्तु विदध्याद्वैष्णवैः सह श्रीकृष्णप्रियभक्तस्य वसन्तस्यार्च्चनोत्सवम् ॥ भविष्योत्तरतो ज्ञेयस्तद्विधिश्चेदपेक्षते । यः श्रीयुधिष्ठिरस्योक्तो व्यक्तं भगवता स्वयम् ॥” तन्माहात्म्यञ्च तत्रैव । “एवं यः कुरुते पार्थ शास्त्रोक्तं फाल्गुनोत्- सवम् । मत्प्रसादाच्च सिद्ध्यन्ति तस्य सर्व्वे मनोरथाः ॥ वृत्ते तुषारसमये सितपञ्चदश्यां प्रातर्व्वसन्तसमये समुपस्थिते च । संप्राश्य चूतकुसुमं सह चन्दनेन सत्यं हि पार्थ पुरुषोऽब्दशतं सुखी स्यात् ॥” इति श्रीहरिभक्तिविलासे १४ विलासः ॥ (वसन्तकालोद्भवोत्सवमात्रम् । यथा, कथा- सरित्सागरे । ४ । ४९ । “अथ तस्मिन् महावेशो वसन्तोत्सववासरे । आययौ प्रथमे यामे कुमारसचिवो निशि ॥”)



Correction: