संस्कृत-शब्दकोशः

वसन्तोत्सव वसाढ्य

वसा

वाचस्पत्यम्

वसा ||‍ स्त्री वस—अच् । १ नांसजाते देहस्थे धातुभेदे मेदसि अमरः । असृक्करशब्दे ५५८ पृ० दृश्यम् । २ मांसरोहिण्यां लतायाञ्च राजनि० ।


शब्दकल्पद्रुमः

वसा || स्त्री (वसति वस्ते वा । वस निवासे वस आच्छादने वा + अच् । स्त्रियामाप् ।)
मांस- प्रभवधातुविशेषः । इत्यमरः ॥ (यथा, सुश्रुते शारीरस्थाने ४ अध्याये । “शद्धमांसस्य यः स्नेहः सा वसा परि- कीर्त्तिता ॥”)
अस्या विवरणं मेदःशब्दे द्रष्टव्यम् ॥ मांस- रोहिणी । इति राजनिर्घण्टः ॥



Correction: