वाचस्पत्यम्
वसि || पु० वस—इन् । वसने उणा० ।
शब्दकल्पद्रुमः
वसिः || पुं, (वस्ते आच्छादयत्यनेन वस्यते आच्छा- दनपूर्व्वकं ध्रियते इति वा । वस आच्छादने + “खनिकष्यञ्जीति ।” उणा० ४ । १३९ । इति इः ।) वसनम् । इत्युणादिकोषः ॥