संस्कृत-शब्दकोशः

वसि वसिष्ठ

वसिर

वाचस्पत्यम्

वसिर ||‍ न० वस—इरन् । १ सामुद्रलवणे २ गजपिप्पल्यां च धरणिः ।


शब्दकल्पद्रुमः

वसिरं || क्ली (वस् + किरच् ।)
सामुद्रलवणम् । गजपिप्पली । इति धरण्यमरटीके ॥ (अस्य गुणा यथा, —
“वसिरं शीतपाक्यञ्च सारुष्करनिबन्धनम् । विष्टम्भि दुर्ज्जरं रूक्षं शीतलं वातकोपनम् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ पुं, रक्तापामार्गः । तत्पर्य्यायो यथा, —
“रक्तोऽन्यो वसिरो वृत्तफलो धामार्गवोऽपि च । प्रत्यक्पर्णी केशपर्णी कथिता कपिपिप्पली ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)



Correction: