वाचस्पत्यम्
वसुक || पु० वसुना सूर्य्यनाम्ला कायति कै—क । १ अर्कवृक्षे अमरः । २ वकवृक्षे च मेदि० ।
शब्दकल्पद्रुमः
वसुकं || क्ली (वसुवत् कायतीति । कै + कः ।)
साम्भरिलवणम् । इत्यमरः ॥ पांशवम् । वास्तू- कम् । इति राजनिर्घण्टः ॥
शब्दकल्पद्रुमः
वसुकः || पुं, (वसुः सूर्य्यस्तन्नाम्ना कायतीति । कै + आतोऽनुपेति कः ।)
अर्कवृक्षः । इत्यमरः ॥ शिव- मल्ली । इति मेदिनी । के, १५२ ॥ पुष्पविशेषः । स तु श्वेतरक्तभेदेन द्विविधः । तत्पर्य्यायः । वसुः २ शैवः ३ वकः ४ शिवमल्लिका ५ पाशुपतः ६ शिवमतः ७ सुरेष्टः ८ शिवशेखरः ९ । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्णत्वम् । पाके शीतत्वम् । दीपनत्वम् । अजीर्णवातगुल्मनाशि- त्वम् । श्वेतस्य रसायनत्वञ्च । इति राज- निर्घण्टः ॥ (अस्य पर्य्यायान्तरं यथा, —
“वकपुष्पः काकशीर्षः स्थूलपुष्पः शिवप्रियः । वसुकः काकनामा च वसुहट्टः स्वपूरकः ॥” इति वैद्यकरत्नमालायाम् ॥)