वाचस्पत्यम्
वसुधा || स्त्री वसूनि धीयन्तेऽस्यां धा घञर्थे आधारे क, वसूनि दधाति घा—क वा । पृथिव्याम् अमरः
शब्दकल्पद्रुमः
वसुधा || स्त्री (वसूनि रत्नानि दधाति धारय- तीति । धा + कः । सुवर्णादीनामाकरत्वात् तथात्वम् ।)
पृथिवी । इत्यमरः ॥ (यथा, साहित्यदपणे १० परिच्छेदे । “राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गना सर्व्वस्वम् ॥” * ॥
वसुधनं दधाति दत्ते इति । धा + क्विप् । धन- दातरि, त्रि । यथा, वाजसनेयसंहितायाम् । २७ । १५ । “वसुश्चेतिष्ठो वसुधातमश्च ॥” “वसुधातमः वसूनां धनानां दातृतमः । क्विब- न्तात् तमप् ।” इति तद्भाष्ये महीधरः ॥)