वाचस्पत्यम्
वसुधारा || स्त्री वसोश्चेदिराजस्य प्रियार्थं धारा घृतादिस्रव- सन्ततिः । माङ्गल्येषु चेदिराजवसूद्वेशेन दीयमानायां घृतादिधारायाम् । “कुड्यलग्नां वसोर्धारां सप्त वारान् घृतेन तु । कारयेत् पञ्च वारान् वा नातिनीचां न चोच्छ्रिताम् । आयुष्मा० निति शान्त्यर्थं जत्या तत्र समाहितः । षडभ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत्” छन्दोगप० । २ जिनशक्तिभेदे हेमच० । ३ कुवेरपुर्य्या शब्दमा० ।
शब्दकल्पद्रुमः
वसुधारा || स्त्री (वसुवत् रत्नस्येव धारा यशो यस्याः ।)
जिनशक्तिविशेषः । तत्पर्य्यायः । तारा २ महाश्रीः ३ ओङ्कारा ४ स्वाहा ५ श्रीः ६ मनो- रमा ७ तारिणी ८ जया ९ अनन्ता १० शिवा ११ लोकेश्वरा १२ आत्मजा १३ खदूर- वासिनी १४ भद्रा १५ वैश्वा १६ नीलसर- स्वती १७ शङ्खिनी १८ महातारा १९ धनं- ददा २० त्रिलोचना २१ अलोचना १२ । इति हेमचन्द्रः ॥ (वसूनां रत्नानां धारा सन्तति- र्यत्र ।)
कुबेरपुरी । इति शब्दमाला ॥ (तीर्थ- विशेषः । यथा, महाभारते । ३ । ८२ । ७२ । “ततो गच्छेत धर्म्मज्ञ ! वसुधारामभिष्टुताम् । गमनादेव तस्यां हि हयमेधमवाप्नुयात् ॥” * ॥
वसोश्चेदिराजस्य प्रिया धारा । यद्बा, —
“वसु द्रव्यं घृतमाज्यमसृतं हविकामिकम् । तस्य धारा सदा देया वसोर्धारा हि सा मता ॥” इति देवीपुराणोक्तवचनात् वसुनो घृतस्य धारा ।)
वृद्धिश्राद्धपूर्ब्बकर्त्तव्यचेदिराजवसू- द्देश्यककुड्यलग्नघृतधारा । यथा । छन्दोगपरि- शिष्टे कात्यायनः । “कुड्यलग्नां वसोर्धारां सप्तवारान् पृतेन तु । कारयेत् पञ्चवारान् वा नातिनीचां न चोच्छ्रिताम् ॥ आयुष्मानिति शान्त्यर्थं जप्त्वा तत्र समाहितः । षड्भ्यः पितृभ्यस्तदनु श्राद्धदानमुपक्रमेत् ॥” वसोश्चेदिराजस्य वसोर्धारामिति वसोर्धाराधि- पातेनेत्यादिदर्शनात् अलुक्समासेनैव प्रयोगः कर्त्तव्यः । इति श्राद्धतत्त्वम् ॥ * ॥
सामगानां तत्पातनमन्त्रो यथा, —
“यद्बर्च्चो हिरण्यस्य यद्वा वर्च्चो गवामुत । सत्यस्य ब्रह्मणो वर्च्चस्तेन मांसं सृजामसि ॥” यजुषां यथा । “वसोः पवित्रमसि शतघारं वसोः पवित्रमसि सहस्रधारं देवस्त्वा सविता पुनातु वसोः पवित्रेण शतधारेण सुत्वा काम- धुक्ष्व ।” इति श्राद्धप्रयोगतत्त्वम् ॥ * ॥
ऋग्- वेदिनां यथा । “अपसश्चर आगच्छन्ती भूरिधारे पयस्वती घृतप्रघाते सुकृते शुचिव्रते । राजम्भ यस्य यस्य भुवनस्य रोदसी आस्म रैत सिञ्चितं यन्मनु- कृतम् । १ । अन्या इव वनुत्तमे तवासुञ्जना अभिचाक- सीमि । यत्र सोमः श्रूयते यत्र यज्ञो पठते घृतस्य धारा मधुमप्लु वधन्ते ॥ २ ॥ घृतवती भुवनानामभिश्रियोर्व्वी पृथ्वी मधु- दुघे सुपेशसा द्यावा पृथिवी वरुणस्य धर्म्मणा विष्कभिते अजरे भूरि रेतसा ॥ ३ ॥ शतधारमुत्समीक्षमाणं विपश्चितं पितरं रुक्थाना अभिमदन्त पित्रोरुपस्थेतं रोदसी पिपृतं सत्यवाचम् ॥ ४ ॥ शतधारं वायुमर्कषर्च्चिषं नृचक्षुषेस्तेऽभि- चक्षते हविः । ये च प्रणन्ति प्रयच्छन्ति सङ्ग- मेति दुदुहे सप्तधारम् ॥ ५ ॥ वसोः पवित्रमसि शतधारं वसोः पवित्रमसि सहस्रधारं देवस्त्वा सविता पुनातु । वसोः पवित्रेण शतघारेण सुत्वा कामधुक्ष्व ॥ ६ ॥ मुर्द्धानन्दिवोरतिं पृथिव्या वैश्वानर मृत आजामग्निं कविं सम्राजमतिथिं जनाना- मासन्नाः पात्रं जवयन्त देवाः स्वाहा ॥ ७ ॥ इत्येतैर्मन्त्रैः सप्तघृतधारा दद्यात् । इति कालेसिः ॥ * ॥
विशेषवसुधारा यथा, —
“न्यूना या बहते धारा मानात् सर्पिर्न सा शुभा । नाधिका शस्यते विप्र दुर्भिक्षकलिकारिका ॥ त्रुट्यते बहमाना या शमते च हुताशनम् । सवर्णा हेमवर्णा च धारा राज्यविवृद्धये ॥ सन्तता पतते या तु तनोतीव च पावकम् । तनोति नृपराष्ट्रञ्च वसोर्धारा न संशयः ॥ सुगन्धि स्वच्छविमलं कृमिकीटविवर्ज्जितम् । शस्यते च वसोर्धारा या सर्पिर्गव्यपूजिता ॥ अभावात् गवलाजं वा होतव्यन्तु सुशोभनम् । घृतरौद्रपयोधारा सर्व्वपीडानिवारिणी ॥ वसु द्रव्यं घृतमाज्यमसृतं हविकामिकम् । तस्य धारा सदा देया वसोर्धारा हि सा मता ॥ वसुना स्वर्गकामेन दक्षेण च महात्मना । मया च विष्णुना शक्र रुद्रेण च सहोमया ॥ आत्मानञ्च स्वरूपेण धारायान्तु प्रपादितम् । देवी सान्निध्यमायाता सर्व्वकामप्रदायिका ॥ तस्मात्त्वमपि राजेन्द्र ! वरोर्धारां प्रपातय । नातः परतरं पुण्यं विद्यते नृपसत्तम ! ॥ वसोर्धाराप्रदानस्य एकाहमपि यद्भवेत् । नृपेणायुषकामेण पुत्त्र राज्यजिगीषुणा । देया धारा सदा वत्स ! रिपुनाशाय बुद्धिमन् ॥ द्रव्याभावे घृताभावे नृप तस्करजे भये । यदि नो वहते धारा तदा छिद्रं न विद्यते ॥ महाआश्विनमासे तु अष्टमीनवमीषु च । कार्त्तिक्यां माघचैत्रेतु चित्रायां रोहिणीषु च ॥ वैशाख्यान्तु प्रदातव्या ज्यैष्ठ्यां ज्येष्ठस्य सत्तम ! । आषाढद्वादशीहोमं अष्टभी पूर्णिमा नभे ॥ नभस्ये रोहिणी वत्स ! चतुर्थ्यां द्बादशीदिने । संक्रान्तिषु च सर्व्वासु गुरुशौरिभवासु च ॥ चन्द्रसूर्य्योपरागेषु प्रतिष्ठायज्ञकर्म्मणि । शक्रोच्छ्रये प्रदातव्या जन्मपुष्पाभिषेचने ॥ मार्गे व्रतनिबन्धे तु शुभे वाक्ये तु दर्शने । ग्रहकृत्योपसर्गेषु धारा देव्याः शुभावहाः ॥ एवं यो वाहयेद्धाराः शास्त्रदृष्टेन कर्म्मणा । तस्य भूः सिद्ध्यते सर्व्वा सनागा सहसागरा ॥” इति देवीपुराणे वसोर्धरानाम ३५ अध्यायः ॥