वाचस्पत्यम्
वसुन्धरा || स्त्री वसूनि धारयति धृ—खच् मुम् ह्रस्वश्च । पृथि- व्याम् अमरः ।
शब्दकल्पद्रुमः
वसुन्धरा || स्त्री (वसूनि धारयतीति । धृ + “संज्ञायां भृतॄवृजिधारिसहितपिदमः ।” ३ । २ । ४६ । इति खच् । “खचि ह्रस्वः । ६ । ४ । ९४ । इति ह्रस्वः । “अरुर्द्बिषदजन्तस्य मुम् ।” ६ । ३ । ६७ । इति मुम् । ।)
पृथिवी । इत्य- मरः ॥ (यथा, विष्णुपुराणे । १ । ४ । ११ । “निरीक्ष्य तं तदा देवी पातालतलमागतम् । तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुन्धरा ॥” शफल्कस्य कन्या । यथा, हरिवंशे । ३८ । ५३ । “विश्रुता शाम्बमहिषी कन्या चास्य वसुन्धरा । रूपयौवनसम्पन्ना सर्व्वसत्त्वमनोहरा ॥” पुं, प्लक्षद्बीपस्य वर्षपुरुषभेदः । यथा, भागवते । ५ । २० । ११ । “प्लक्षवर्षपुरुषाः श्रुतिधरवीर्य्य- धरवसुन्धरेषुन्धरसंज्ञा भगवन्तं वेदमयं सोम- मात्मानं वेदेन यजन्ते ॥”)