शब्दकल्पद्रुमः
वसुसेनः || पुं, कर्णराजः । इति त्रिकाण्डशेषः । (यथा, महाभारते । १ । ६७ । १४० । “राधायाः कल्पयामास पुत्त्रं सोऽधिरथस्तदा । चक्रतुर्नामधेयञ्च तस्य बालस्य ताबुभौ । दम्पती वसुसेनेति दिक्षु सर्व्वासु विश्रुतम् ॥” क्वचित् वसुषेणेति पाठः ॥)