शब्दकल्पद्रुमः
वस्कयनी || स्त्री (वस्कय एकहायनो बत्सः । तेन नीयते इति । नी + क्विप् । ङीष् ।) चिरप्रसूता गौः । इत्यमरटीकायां रायमुकुटः ॥ अस्या दुग्धगुणाः । “वस्कयिन्यास्त्रिदोषघ्नं तर्पणं बलकृत् पयः ।” इति भावप्रकाशः ॥