वाचस्पत्यम्
वस्त || पुंस्त्री वस्त्यते बध्यते यज्ञार्थं वस्त—कर्मणि घञ् । छागे अमरः स्त्रियां ङीष् ।
वाचस्पत्यम्
वस्त || बध गतौ च सक० याचने द्वि० चु० उभ० सेट् । वस्त- यति ते अववस्तत् त ।
शब्दकल्पद्रुमः
व(ब)स्तः || पुं, (वस्त्यते यज्ञार्थं वध्यते इति । वस्त + कर्म्मणि घञ् ।)
छागः । इत्यमरः । २ । ९ । ७६ ॥ (यथा, मार्कण्डेये । ४३ । १२ । “यस्य वस्तसमो गन्धो गात्रे शवसमोऽपि वा । तस्यार्द्धमासिकं ज्ञेयं योगिनो नृप ! जीवितम् ॥”)
शब्दकल्पद्रुमः
वस्त || क ङ वधे । इति कविकल्पद्रुमः ॥ (चुरा०- आत्म०-सक०-सेट् ।)
क ङ, वस्तयते । गति- हिंसायाचनेष्विति रमानाथः । इति दुर्गा- दासः ॥