वाचस्पत्यम्
वस्त्य || न० वस्तौ साधु यत् । गृहे अमरः ।
शब्दकल्पद्रुमः
वस्त्यं || क्ली (वस् + क्तिन् । वस्तिर्वासस्तस्यां साधु । वस्ति + “तत्र साधुः ।” ४ । ४ । ९८ । इति यत् ।) गृहम् । इत्यमरः ॥