वाचस्पत्यम्
वस्त्र || न० वस—ष्ट्रन् । परिधानाद्युपयुक्ते कार्पासादौ वसने । वस्त्रधारणगुणाः यथा “स्नातस्यानन्तरं सम्यग्वस्त्रेण तनुमार्जनम् । कान्तिप्रदं शरीरस्य कण्डूयादोषनाश- नम् । कौषेयं चित्रवस्त्रञ्च रक्तवस्त्रं तथैव च । वात- श्लेष्महरं तत्तु शीतकाले विघारयेत् ।” कौषेयं पट्टा- म्बरं तसरवस्त्रञ्च । “मेध्यं सुशीतं पित्तघ्नं काषायं वस्त्रमुच्यते । तद्धारयेदुष्णकाले तच्चापि लघु शस्यते ।” काषायं (कोकटी) इति लोके । कषायरागरक्तं वा । “शुक्लन्तु शुभदं वस्त्रं शीतातपनिवारणम्ः । नचोष्णं नच वा शीतं तत्तु वर्षासु धारयेत् । यशस्यं काम्य- मायुष्यं श्रीमदानन्दबर्द्धनम् । त्वच्यं वशीकरं रुच्यं नवं निर्मलमम्बरम् ।” काम्यं कामोद्दीपकम् । “कदापि न जनैः सद्भिर्धार्य्यं मलिनमम्बरम् । तत्तु कण्डू कृमिकरं ग्लान्यलक्ष्मीकरं परम् ।” अलक्ष्मीरशोभा दारिद्र्यं वा ।” भावप्र० अस्य परिधानविधिर्यथा भृगुः “विकच्छोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च । श्रौतं स्मार्त्तं तथा कर्म न नग्न- श्चिन्तयेदपि । विकच्छः परीघानाद् गलितकच्छः । तथा च “परीधानात्वहिः कच्छा निबद्धा ह्यासुरी भवेत्” स्मृतिः “वामे पृष्ठे तथा नाभौ कच्छत्रयमुदाहृतम् । एभिः कच्छैः परीधत्ते यो विप्रः स शुचिः स्मृतः” । वौधायनः “नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी । अन्तरीयं प्रशस्तं तदच्छिन्नमुभयोस्तयोः ।” प्रचेताः “दशा नाभौ प्रयोजयेत्” स्मृतिः “न स्यात् कर्मणि कञ्चुकीति” । उत्तरीयधारणं चोपवीतवत् “यथा यज्ञोपवीतञ्च धार्य्यते च द्विजोत्तमैः । तथा सन्धार्य्यते यत्नादुत्तरा- च्छादनं शुभम्” स्मृतेः । अत्र यथा द्विजोत्तमैः सव्यापसव्यत्वादिना उपवीतं धार्य्यते तथा उत्तराच्छा- दनमपि द्विजोत्तमैरिति प्रदर्शनमात्रम् प्रागुक्तभृगु- वचनेन सर्वेषां द्विवस्त्रताप्रतीतेः” पारस्करः “एकञ्चे- द्वासो भवति तस्य उत्तरार्द्धेण प्रच्छादयतीति” आ० त० रघु० । “वस्त्रपरीधाननक्षत्रादि “ब्रह्मानुराधवसुतिष्यवि- शाखहस्तचित्रोत्तराग्निपवनादितिरेवतीषु । जन्मर्क्षजीव बुधशुक्रदिनोत्सवादौ धार्य्यं नवं वसनमीश्वर देवतुष्ट्यै ।” ज्यो त० । “सूर्य्ये चाल्पधनं, व्रणः शशिदिने, क्लेशः सदा भूमिजे, वस्त्राणां बहुता वुधे, सुरगुरौ विद्यागमः सम्पदः । नानाभोगयुतप्रमोद शयनं विद्याङ्गना भार्गवे, शौरौस्युः खलु रोगशोककलहा वस्त्रे धृते नूतने” कर्मलोचनम् । अस्य क्षारसंयोग निषिद्धदिनानि यथा । “मन्दमङ्गलषष्ठीषु द्वादश्यां श्राद्ध- वासरे । वस्त्राणां क्षारसंयोगात्दहत्यासप्तमं कुलम् ।” आ० त० । परकीयवस्त्रधारणनिषेधो यथा “आसनं वसनं शय्या जाया- पत्यं कमण्डलुः । आत्मनः शुचिरेतानि न परेषां कदा- चन” । ईषद्धौतादिवस्त्रस्य पश्चिमाग्रादिप्रसारितवस्त्रस्य च अधौतत्वं यथा, “ईषद्धौतं स्त्रिया धौतं यद्धौतं रज- कस्य तु । अधौतं तद्विजानीद्दशादक्षिणपश्चिमे ।” कर्मलोचनम् । सत्यतपाः “प्रागग्रमुदग्रं वा घौतं वस्त्रं प्रसारयेत् । पश्चिमाग्रं दक्षिणाग्रं पुनः प्रक्षा- लनात् शुचि” अत्राग्रं दशा वृक्षवत् । प्रचेताः “स्वयं धोतेन कर्त्तव्या क्रिया धर्म्या विपश्चिता । न च रजक- घौतेन नाधौतेन भवेत् क्वचित् । पुत्रमित्रकलत्रेण स्वजातिबान्धवेन च । दासवर्गेण यद्धौतं तत् पवित्र- मिति स्थितिः” । स्नानोत्तरं उष्णीषवस्त्रस्य धार्य्यत्वं यथा उष्णीषधारणं शिरोजलापनयनाय । तेन म्नानानन्तरं धार्य्यम् । तथा च महाभारतम् “आप्लुत- स्याधिवासेन जलेन च सुगन्धिना । राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम् । जलक्षयनिमित्तं वै वेष्टया- मास मूर्द्धनि” । शिथिलार्पितम् अगाढबद्वम् । निषिद्ध- वस्त्राणि यथा भारते “न स्यूतेन न दग्धेन पार- क्येण विशेषतः । मूषिकोत्कीर्णजीर्णेन कर्म कुर्य्याद्विच- क्षणः ।” नारसिंहे “न रक्तमुल्वर्ण वासी न नीलञ्च प्रशस्यते । मलाक्तञ्च दशाहीनं वर्जयेदम्बरं बुधः । उल्वणम् उत्कटरक्तविशेषम् । आचाररत्ने उशना “दशाहीनेन वस्त्रेण कुर्य्यात् कर्माण्यभावतः” । विष्णु- धर्मोत्तरे “वस्त्रं नान्यधृतं धार्य्यं न रक्तं मलिनं तथा । जीर्णं वाऽपदशञ्चैव श्वेतं धार्य्यं प्रयत्नतः । उपानहं नान्यधृतां ब्रह्मसूत्रञ्च धारयेत् । न जीर्णमलव- द्वासा भवेच्च विभवे सति ।” योगियाज्ञवल्क्यः “म्नात्वैवं वाससी धौते अक्लिन्ने परिधाय च । प्रला- ल्योरू मृदद्भिश्च हस्तौ प्रक्षालयेत्ततः । अभावे धौत- वस्त्राणां शाणक्षौमाविकानि च । कुतपो योगपट्टं वा द्विर्वासा येन वा भवेत् । अधौतेन च वस्त्रेण नित्यनैमि- त्तिकीं क्रियाम् । कुर्वन् फलं न चाप्नोति दत्तं भवति निष्कलम्” । कुतपो नेपालकम्बलः । तत्रापवादः “राङ्गवे पट्टसूत्रे च सूचीविद्धं न दुष्यति” विधानपा० “नीलीरक्तं न दुष्यति” इति मिता० पाठः । तर्पणात् पूर्वं म्रानवस्त्र निष्पीडने निषेधो यथा “निष्पीडयति यः पूर्वं स्नानवस्त्रन्तु तर्पणात् । निराशास्तस्य गच्छन्ति देवाः पितृगणैः सह” । जावालिः “म्नानं कृत्वार्द्रवासास्तु विण्मूत्रं कुरुते यदि । प्राणायामत्रयं कृत्वा पुनः स्नानेन शुध्यति । नार्द्रमेकञ्च वसनं परिदध्यात् कथञ्चन” । हारोतः “आर्द्रञ्च सप्तवाताहतमपि शुद्धमिति” । संक्रान्त्यादौ वस्त्रनिष्पीडननिषेधो यथा षट्त्रिंशन्मत- निगमौ “संक्रान्त्यां पञ्चदश्याञ्च द्वादश्यां श्राद्धवासरे । वस्त्रं न पीडयेत्तत्र नच क्षारेण योजयेत्” ति० त०
शब्दकल्पद्रुमः
वस्त्रं || क्ली (वस्यते आच्छाद्यतेऽनेनेति । वस आच्छादने + “सर्व्वधातुभ्यः ष्ट्रन् ।” उणा० ४ । १५८ । इति ष्ट्रन् ।)
परिधानाद्युपयुक्तकार्पासादि- निर्म्मितवस्तु । कापड इति भाषा । तत्पर्य्यायः । आच्छादनम् २ वासः ३ चेलम् ४ वसनम् ५ अंशुकम् ६ । इत्यमरः ॥ सिचयः ७ प्रोतः ८ लक्तकः ९ कर्पटः १० शाठकः ११ कशिपुः १२ । इति जटाधरः ॥ वासनम् १३ द्बिचयम् १४ प्रोतम् १५ छादम् १६ वासम् १७ । इति शब्दरत्नावली ॥ * ॥
अस्य परिधानविधिर्यथा, भृगुः । “विकक्षोऽनुत्तरीयश्च नग्नश्चावस्त्र एव च । श्रौतं स्मार्त्तं तथा कर्म्म न नग्नश्चिन्तयेदपि ॥” विकक्षः परीधानासंवृतकच्छः । तथा च । “परीधानाद्वहिःकक्षा निबद्धा ह्यासुरी भवेत् ॥” स्मृतिः । “वामे पृष्ठे तथा नाभौ कक्षत्रयमुदाहृतम् । एभिः कक्षैः परीधत्ते यो विप्रः स शुचिः स्मृतः ॥” बौधायनः । “नाभौ धृतञ्च यद्वस्त्रमाच्छादयति जानुनी । अन्तरीयं प्रशस्तं तदच्छिन्नमुभयोस्तयोः ॥” प्रचेताः । दशा नाभौ प्रयोजयेत् । स्मृतिः । न स्यात् कर्म्मणि कञ्चुकीति । उत्तरीयधारणं चोपवीतवत् । “यथा यज्ञोपवीतञ्च धार्य्यते च द्विजोत्तमैः । तथा सन्धार्य्यते यत्नादुत्तराच्छादनं शुभम् ॥” इति स्मृतेः ॥ अत्र यथा द्विजोत्तमैः सव्यापसव्यत्वादिना उप- वीतं धार्य्यते तथा उत्तराच्छादनमपि द्विजो- त्तमैरिति प्रदर्शनमात्रम् । प्रागुक्तभृगुवचनेन सर्व्वेषां द्विवस्त्रताप्रतीतेः । पारस्करः । एकञ्चे- द्वासो भवति तस्य उत्तरार्द्धेन प्रच्छादयतीति । इत्याह्निकतत्त्वम् ॥ * ॥
अस्य धारणगुणाः । यथा, —
“काम्यं यशस्यमायुष्यमलक्ष्मीघ्नं प्रहर्षणम् । श्रीमत्पारिषदं शस्तं निर्म्मलाम्बरधारणम् ॥” इति राजवल्लभः ॥ * ॥
अपि च । “स्नातस्यानन्तरं सम्यग्वस्त्रेण तनुमार्जनम् । कान्तिप्रदं शरीरस्य कण्डूयादोषनाशनम् ॥ कौषेयं चित्रवस्त्रञ्च रक्तवस्त्रं तथैव च । वातश्लेष्महरं तत्तु शीतकाले विधारयेत् ॥” कौषेयं पट्टाम्बरं तसरवस्त्रञ्च । “मेध्यं सुशीतं पित्तघ्नं कषायं वस्त्रमुच्यते । तद्धारयेदुष्णकाले तच्चापि लघु शस्यते ॥” कषायं कोकची इति लोके । कषायरागरक्तं वा । “शुक्लन्तु शुभदं वस्त्रं शीतातपनिवारणम् । न चोष्णं न च वा शीतं तत्तु वर्षासु धारयेत् ॥ यशस्यं काम्यमायुष्यं श्रीमदानन्दवर्द्धनम् । त्वच्यं वशीकरं रुच्यं नवं निर्म्मलमम्बरम् ॥” काम्यं कामोद्दीपकम् । “कदापि न जनैः सद्भिर्धार्य्यं मलिनमम्बरम् । तत्तु कण्डूकृमिकरं ग्लान्यलक्ष्मीकरं परम् ॥” अलक्ष्मीरशोभा दादिद्रं वा । इति भाव- प्रकाशः ॥ * ॥
(अथ स्वप्ने वस्त्रादिदर्शनात् शुभफलं यथा, —
“कन्यां कुमारकान् गौरान् शुक्लवस्त्रान् सुते- क्षसः । यः पश्येल्लभते यो वा छत्रादर्शविषामिषम् ॥ शुक्लाः सुमनसो वस्त्रममेध्यालेपनं फलम् ॥ यस्य स्यादायुरारोग्यं वित्तं बहु च सोऽश्नुते ॥” इति वाभटे शारीरस्थाने षष्ठेऽध्याये ॥)
अथ नववस्त्रपरीधानदिनम् । “ब्रह्मानुराधवसुतिष्यविशाखहस्त- चित्रोत्तराग्निपवनादितिरेवतीषु । जन्मर्क्षजीवबुधशुक्रदिनोत्सवादौ धार्य्यं नवं वसनमीश्वरदेवतुष्टौ ॥” इति ज्योतिस्तत्वम् ॥ * ॥
अपि च । “सूर्य्ये चाल्पधनं ब्रणः शशिदिने क्लेशः सदा भूमिजे वस्त्राणां बहुता बुधे सुरगुरौ विद्यागमः सम्पदः । नानाभोगयुतः प्रमोदशयनं दिव्याङ्गना भार्गवे शौरे स्युः खलु रोगशोककलहा वस्त्रे धृते नूतने ॥” इति कर्म्मलोचनम् ॥ * ॥
अस्य क्षारसंयोगनिषिद्धदिनानि यथा, —
“मन्दमङ्गलषष्ठीषु द्वादश्यां श्राद्धवासरे । वस्त्राणां क्षारसंयोगो दहत्यासप्तमं कुलम् ॥” इत्याह्निकाचारतत्त्वम् ॥ तद्दानफलं यथा, —
“वासोदश्चन्द्रसालोक्त्यमश्विसालोक्यमश्वदः ॥” इति शुद्धितत्त्वम् ॥ अपि च । “द्विजानां ये तु सततं शुभवस्त्रप्रदा नराः । वस्त्रगन्धयुतः पन्थास्तेषां सुजलशीतलः ॥” इत्याद्ये वह्निपुराणे यमशर्म्मिलोपाख्याननामा- ध्यायः ॥ * ॥
तेन विष्णुपूजाविधिर्यथा, —
“दुकूलपट्टकौषेयवाल्ककार्पासकादिभिः । वासोभिः पूजयेद्विष्णुं सुशुभैरात्मनः प्रियैः ॥” इति तत्रैव क्रियायोगनामाध्यायश्च ॥ तद्ग्रहणविधिर्यथा । विष्णुधर्म्मोत्तरम् । “वस्त्रं दशान्तमादद्यात् परिधाय तथा पुनः । आरुह्योपानहौ यानमारुह्यैव च पादुके ॥” तस्याधिपतिर्यथा । तत्रैव । “बार्हस्पत्यं स्मृतं वासः सौम्यानि रजतानि च । पक्षिणश्च तथा सर्व्वे वायव्याः परिकीर्त्तिताः ॥” तत्प्रतिग्रहप्रायश्चित्तं यथा । हारीतः । मणि- वासोगवादीनां प्रतिग्रहे सावित्र्यष्टशतं जपेत् । अष्टसहस्रं अष्टोत्तरसहस्रम् । इति शुद्धि- तत्त्वम् ॥ * ॥
अपि च । श्रीभगवानुबाच । “कार्पासं काम्बलं वाल्कं कौषजं वस्त्रमिष्यते । तत् पूर्ब्बं पूजयित्वैव मन्त्रैर्देवाय चोत्सृजेत् ॥ निर्दशं मलिनं जीर्णं छिन्नं गात्रावलिङ्गितम् । परकीयं वाखुदष्टं सूचीव्रिद्धं तथोषितम् । उप्तकेशं विधौतञ्च श्लेष्ममूत्रादिदूषितम् ॥ प्रदाने देवताभ्यश्च दैवे पैत्र्ये च कर्म्मणि । वर्ज्जयेत् शापयोगेन यज्ञादावुपयोजने ॥” शापयोगेन इत्यत्र स्वोपयोगेन इति क्वचित् पुस्तके पाठः । “उत्तरीयोत्तरासङ्गौ निचोलो मोदचेलकः । प्ररिधानञ्च पञ्चैतान्यस्यूतानि प्रयोजयेत् ॥ शाणवस्त्रं नीशारञ्च तथेवातपवारणम् ॥” क्वचित् पुस्तके शाणवस्त्रमित्यत्र मणिवस्त्रमिति पाठः । “चण्डातकं तथा दूष्यं पञ्च स्यूतान्यदुष्टये । पताकाध्वजदण्डादौ स्यूतं वस्त्रं प्रयोजयेत् ॥ अन्यत्रावरणादौ च तद्विना शस्ततोऽपि च । रक्तं कौषेयवस्त्रञ्च महादेव्यै प्रशस्यते ॥ गीतं तथैव कौषेयं वासुदेवाय चोत्सृजेत् । रक्तन्तु कम्बलं दद्यात् शिवाय परमात्मने ॥ विचित्रं सर्व्वदेवेभ्यो देवीभ्योऽशुं निवेदयेत् । कार्पासं सर्व्वतोभद्रं दद्यात् सर्व्वेभ्य एव तु ॥ नैकान्तरक्तं दद्यात्तु वासुदेवाय चेलकम् । तथा नैकान्तरक्तन्तु शिवाय विनिवेदयेत् ॥ नीलीरक्तन्तु यद्वस्त्रं तत् सर्व्वत्र विवर्ज्जितम् । दैवे पैत्रे स्वोपयोगे वर्ज्जयेत्तद्विचक्षणः ॥ नीलीरक्तं प्रमादात्तु यो दद्याद्विष्णवे बुधः । निष्फला तस्य तत्पूजा तदा भवति भैरव ॥ विचित्रे वाससि पुनर्लग्नं नीलीविरञ्जितम् । वस्त्र्ं दद्यान्महादेव्यै नान्यस्मै तु कदाचन ॥ द्विपदां ब्राह्मणो यद्वत् देवानां वासवो यथा । तथा भूषणवर्गेषु वस्त्रमुत्तममुच्यते ॥ वस्त्रेण त्रायते लज्जां वस्त्रेण त्रायते त्वघम् । वस्त्रात् स्यात् सर्व्वतः सिद्धिश्चतुर्व्वर्गप्रदञ्च तत् ॥” इति कालिकापुराणे ६८ अध्यायः ॥ राज्ञा सदा वस्त्राच्छादितशरीरं कर्त्तव्यम् । यथा, —
“सर्व्वदा मङ्गलं रत्नं धारयेत् सह दूर्व्वया । अवस्त्राच्छादितं गात्रं न विप्रेभ्यः प्रदर्शयेत् ॥” इति तत्रैव ८९ अध्यायः ॥ नीलवस्त्रं परिधाय विष्णुपूजननिषेधो यथा, — वराह उवाच । “भूषितो नीलवस्त्रेण यो हि मामुपसर्पति । वर्षाणाञ्च शतं पञ्च कृमिर्भूत्वा स तिष्ठति ॥ तस्य वक्ष्यामि सुश्रोणि अपराधविशोधनम् । प्रायश्चित्तं विशालाक्षि येन मुच्येत किल्विषात् ॥ व्रतं चान्द्रायणं कृत्वा विधिदृष्टेन कर्म्मणा । मुच्यते किल्विषात् भूमे एवमेतन्न संशयः ॥” इति वाराहे नीलवस्त्रपरीधानप्रायश्चित्त- नामाध्यायः ॥ * ॥
विष्णुपूजने रक्तवस्त्रपरी- धाननिषेघो यथा, — वराह उवाच । “रक्तवस्त्रेण संयुक्तो यो हि मामुपसर्पति । तस्यापि शृणु सुश्रोणि कर्म्म संसारमोक्षणम् ॥ रजस्वलासु नारीषु रजो यत्तत् प्रवर्त्तते । तेनासौ रजसा स्पृष्टो कर्म्मदोषेण जानतः ॥ वर्षाणि दशपञ्चैव वसते तत्र निश्चयः । रजो भूत्वा महाभागे रक्तवस्त्रपरायणः ॥ प्रायश्चित्तं प्रवक्ष्यामि तस्य कायविशोधनम् । येन शुध्यन्ति वै भूमे पुरुषाः शास्त्रवर्ज्जिताः ॥ एकाहारं ततः कृत्वा दिनानि दश सप्त च । वायुभक्षो दिनत्रीणि दिनमेकं जलाशनः ॥ एवं स मुच्यते भूमे मम विप्रियकारकः । प्रायश्चित्तं ततः कृत्वा ममासौ रोचते सह ॥ एतत्ते कथितं भूमे रक्तवस्त्रविभूषितम् । प्रायश्चित्तं महाभागे सर्व्व संसारमोक्षणम् ॥” इति तत्रैव रक्तवस्त्रपरीधानप्रायश्चित्तम् ॥ परिधृतकृष्णवस्त्रस्य विष्णूपासननिषेधो यथा, —
“यः पुनः कृष्णवस्त्रेण मम कर्म्मपरायणः । देवि कर्म्माणि कुर्व्वीत तस्य वै पतनं शृणु ॥ घुणा वै पञ्चवर्षाणि काष्ठभक्षश्च जायते । मशकस्त्रीणि वर्षाणि कच्छस्त्रीणि च पञ्च च ॥ न स गच्छति संसारं मम कर्म्मपरायणः । पारावतश्च जायेत नववर्षाणि पञ्च च ॥ जातो ममापराधेन सितः पारावतो भुवि । तिष्ठते मम पार्श्वेषु यत्रैवाहं प्रतिष्ठितः ॥ प्रायश्चित्तं प्रवक्ष्यामि तस्य संसारमोक्षणम् । येनासौ लभते सिद्धिं कृष्णवस्त्रापराधतः ॥ सप्ताहं यावकं भुक्त्वा त्रिरात्रं शक्तुपिण्डिकाम् । त्रीणि पिण्डान् त्रिरात्रन्तु एवं मुच्येत किल्वि- षात् ॥ य एतेन विधानेन देवि कर्म्माणि कारयेत् । शुचिर्भागवतो भूत्वा मम मार्गानुसारकः । न स गच्छति संसारं मम लोकाय गच्छति ॥” इति तत्रैव कृष्णवस्त्रपरीधानप्रायश्चित्तम् ॥ परिधृताधौतवस्त्रस्य विष्णुकर्म्मकरणनिषेधो यथा, — वराह उवाच । “वाससा न च धौतेन यो मे कर्म्माणि कारयेत् । शुचिर्भागवतो भूत्वा मम मार्गानुसारकः ॥ तस्य दोषं प्रवक्ष्यामि अपराधं वसुन्धरे । पतन्ति येन संसारं वाससोच्छिष्टकारिणः ॥ देवि भूत्वा गजोन्मत्तस्तिष्ठत्येकं नरो भुवि । उष्ट्रश्चैकं भवेज्जन्म जन्म चैकं खरस्तथा ॥ गोमायुरेकजन्मा वै जन्म चैकं हयस्तथा । सारङ्गश्चैकजन्मा वै मृगो भवति चैकतः ॥ सप्तजन्मान्तरं पश्चात्ततो भवति मानुषः । मद्भक्तश्च गुणज्ञश्च मम कर्म्मपरायणः । निरापराधो दक्षश्च अहङ्कारविवर्ज्जितः ॥ धरण्युवाच । शुतमेतत् प्रयत्नेन यत्त्वया समुदाहृतम् । संसारं वाससोच्छिष्टं येन गच्छन्ति मानवाः ॥ प्रायश्चित्तञ्च मे ब्रूहि सर्व्वकर्म्मसुखावहम् । किल्विषात् येन मुञ्चन्ति तव कर्म्मपरायणः ॥ वाराह उवाच । शृणु तत्त्वेन मे देवि कथ्यमानं मयानघे । प्रायश्चित्तं प्रवक्ष्यामि मम भक्तिपरायणः ॥ यावकेन दिनं त्रीणि पिण्याकेन पुनस्त्रयः । कणभक्षो दिनत्रीणि पायसेन दिनत्रयम् ॥ एवं कृत्वा महाभागे वाससोच्छिष्टकारिणः । अपराधं न विद्येत संसारञ्च न गच्छति ॥” इति तत्रैव अधौतवासःपरिधानप्रायश्चित्त- नामाध्यायः ॥ * ॥
अथ परिहितपरकीयवस्त्रस्य विष्णुपूजादिकरणे प्रायश्चित्तम् । वाराह उवाच । “यः पारक्येण वस्त्रेण नावधूतेन माधवि । प्रायश्चित्ती पुमान्मूर्खो मम कर्म्मपरायणः ॥ करोति मम कर्म्माणि स्पृष्ट्वा ते मां तमःस्थितः । मृगो वै जायते देवि वर्षाणि त्रीणि सप्त च ॥ हीनपादेन जायेत चैकजन्म वसुन्धरे । मूर्खश्च क्रोधनश्चैव मद्भक्तश्चैव जायते ॥ तस्य वक्ष्यामि सुश्रोणि प्रायश्चित्तं महौजसम् । येन गच्छति संसारं मम भक्तो व्यवस्थितः ॥ अष्टभक्तं ततः कृत्वा मम कर्म्मपरायणः । माघस्यैव तु मासस्य शुक्लपक्षस्य द्बादशी ॥ तिष्ठेज्जलाशये तत्र क्षान्तो दान्तो जितेन्द्रियः । अनन्यमानसो भूत्वा मम चिन्तापरायणः ॥ प्रभातायान्तु शर्व्वर्य्यां उदिते च दिवाकरे । पञ्चगव्यं ततः पीत्वा शीघ्रं मुच्येत किल्विषात् ॥ य एतेन विधानेन प्रायश्चित्तं समाचरेत् । सर्व्वपापविनिर्मुक्तो मम लोकाय गच्छति ॥” इति वाराहे परकीयवस्त्रपरीधानप्रायश्चित्त- नामाध्यायः ॥ * ॥
काञ्चननिर्म्मितवस्त्रप्रमाणं यथा, —
“यावत् काञ्चनवस्त्राणां वाहिका गोपकन्यकाः । काश्चित्तत्राययुः शीघ्रं यत्र चन्द्रावली मुदा ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २८ अध्यायः ॥ “आसनं वसनं शय्या जायापत्यं कमण्डलुः । आत्मनः शुचिरेतानि न परेषां कदाचन ॥” ईषद्धौतादिवस्त्रस्य पश्चिमाग्रादिप्रसारित- वस्त्रस्य च अधौतत्वं यथा, —
“ईषद्धौतं स्त्रिया धौतं यद्धौतं रजकेन तु । अधौतं तद्विजानीयाद्दशा दक्षिणपश्चिमे ॥” इति कर्म्मलोचनम् ॥ * ॥
सत्यतपाः । “प्रागग्रमुदगग्रं वा धौतं वस्त्रं प्रसारयेत् । पश्चिमाग्रं दक्षिणाग्रं पुनः प्रक्षालनात् शुचि ॥” अत्राग्रं दशा वृक्षवत् ॥ * ॥
प्रचेताः । “स्वयं धौतेन कर्त्तव्या क्रिया धर्म्म्या विपश्चिता । न च राजकधौतेन नाधौतेन भवेत् क्वचित् ॥ पुत्त्रमित्रकलत्रेण स्वजातिबान्धवेन च । दासवर्गेण यद्धौतं तत् पवित्रमिति स्थितिः ॥” स्नानोत्तरं उष्णीषवस्त्रस्य धार्य्यत्वं यथा । उष्णीषधारणं शिरोजलापनयनाय । तेन तद- नन्तरं न धार्य्यम् । तथा महाभारतम् । “आप्लुतः साधिवासेन जलेन च सुगन्धिना । राजहंसनिभं प्राप्य उष्णीषं शिथिलार्पितम् । जलक्षयनिमित्तं वै वेष्टयामास मूर्द्धनि ॥” शिथिलार्पितं अगाढबद्धम् ॥ * ॥
निषिद्ध- वस्त्राणि यथा । भारते । “न स्यूतेन न दग्धेन पारक्येण विशेषतः । मूषिकोत्कीर्णजीर्णेन कर्म्म कुर्य्याद्विचक्षणः ॥” नारसिंहे । “न रक्तमुल्वणं वासो न नीलञ्च प्रशस्यते । मलाक्तञ्च दशाहीनं वर्ज्जयेदम्बरं बुधः ॥” उल्वणं उत्कटरक्तविशेषम् । आचाररत्ने उशनाः । “दशाहीनेन वस्त्रेण कुर्य्यात् कर्म्माण्यभावतः ।” विष्णुधर्म्मोत्तरे । “वस्त्रं नान्यधृतं धार्य्यं न रक्तं मलिनं तथा । जीर्णं वापदशञ्चैव श्वेतं धार्य्यं प्रयत्नतः ॥ उपानहं नान्यधृतं ब्रह्मसूत्रञ्च धारयेत् । न जीर्णमलवद्वासो भवेच्च विभवे सति ॥” योगियाज्ञवल्क्यः । “स्नात्वैवं वाससी धौते अक्लिन्ने परिधाय च । प्रक्षाल्योरूमृदद्भिश्च हस्तौ प्रक्षालयेत्ततः ॥ अभावे धौतवस्त्राणां शाणक्षौमाविकानि च । कुतपो योगपट्टं वा द्बिर्व्वासा येन वा भवेत् ॥ अधौतेन च वस्त्रेण नित्यनैमित्तिकीं क्रियाम् । कुर्व्वन् फलं न चाप्नोति दत्तं भवति निष्फलम् ॥” कुतपो नेपालकम्बलः ॥ * ॥
तर्पणात् पूर्ब्बं स्नानवस्त्रनिष्पीडननिषेधो यथा, —
“निष्पीडयति यः पूर्ब्बं स्नानवस्त्रन्तु तर्पणात् । निराशास्तस्य गच्छन्ति देवाः पितृगणैः सह ॥” यावालिः । “स्नानं कृत्वार्द्रवासास्तु विण्मूत्रं कुरुते यदि । प्राणायामत्रयं कृत्वा पुनः स्नानेन शुद्ध्यति ॥ * ॥
नार्द्रमेकञ्च वसनं परिदध्यात् कथञ्चन ॥” हारीतः । आर्द्रञ्च सप्तवातहतमपि शुद्ध- मिति ॥ * ॥
मदनपारिजाते पारस्करः । एकञ्चेद्वासो भवति तस्योत्तरार्द्धेन प्रच्छादय- तीति । इत्याह्निकतत्त्वम् ॥ * ॥
संक्रान्त्यादौ वस्त्रनिष्पीडननिषेधो यथा । षट्त्रिंशन्मत- निगमौ । “संक्रान्त्यां पञ्चदश्याञ्च द्वादश्यां श्राद्धवासरे । वस्त्रं न पीडतेत्तत्र न च क्षारेण योजयेत् ॥” इति तिथ्यादितत्त्वम् ॥