वाचस्पत्यम्
वस्त्रगृह || न० वस्त्रनिर्मितं गृहम् शाक० । (तामु) वस्त्रनिर्मिते गृहे त्रिका० ।
शब्दकल्पद्रुमः
वस्त्रगृहं || क्ली (वस्त्रनिर्म्मितं गृहम् ।)
वस्त्र- निर्म्मितशाला । ताँवु इति भाषा । तत्पर्य्यायः । पटवापः २ पटमयम् ३ दूष्यम् ४ स्थलम् ५ । इति त्रिकाण्डशेषः ॥