शब्दकल्पद्रुमः
वस्वोकसारा is an alternate of वस्वौकसारा. व(स्वो)स्वौकसारा || स्त्री (वस्वौकेषु रत्नाकरेषु सारा ।)
इन्द्रपुरी । (यथा, रघुः । १६ । १० । “वस्वौकसारामभिभूय साहं सौराज्यबद्धोत्सवया विभूत्या । समग्रशक्तौ त्वयि सूर्य्यवंश्ये सति प्रपन्ना करुणामवस्थाम् ॥”)
इन्द्रनदी । (यथा, महाभारते । ३ । १८८ । १०१ । “वस्वौकसारां नलिनीं नर्म्मदाञ्चैव भारत ! ॥”)
कुबेरपुरी । (यथा, महाभारते । ७ । ६५ । १५ । “नैतादृशं दृष्टपूर्ब्बं कुबेरसदनेष्वपि । धनञ्च पूंर्य्यमाणं नः किं पुनर्मनुजेष्विति । व्यक्तं वस्वोकसारेयमित्यूचुस्तत्र विस्मिताः ॥”)
कुबेरनदी । इति हेमचन्द्रः ॥