संस्कृत-शब्दकोशः

वस्वौकसारा वहत

वह

वाचस्पत्यम्

वह is an alternate of बह. ब(व)ह ||‍ वृद्धौ भ्वा० आत्म० अक० सेट् इदित् । बं(व)हते अबं(वं)हिष्ट । बवंहे महिसाहर्य्यादयमोश्छादिरिति पाणिनीयाः । दन्तोष्ट्यादिरिति बोपदेवः ।


वाचस्पत्यम्

वह ||‍ दीप्तौ चु० उभ० सक० सेट् इदित् । वंहयति ते अवं- हिष्ट ।


वाचस्पत्यम्

वह ||‍ पु० उह्यतेऽनेन वह—अच् । १ वृषस्कन्धदेशे अमरः । वह—कर्त्तरि अच् । २ घोटके ३ वाहौ ४ पथि त्रिका० ५ नद्यां स्त्री हेमच० ।


वाचस्पत्यम्

वह ||‍ प्रापणे भ्वा० उभ० द्विक० यजा० अनिट् । वहति ते अवाक्षीत् अवोढ उवाह ऊहे ऊढः । अस्य प्रधानकर्म- ण्यंव लकारादयः ।


शब्दकल्पद्रुमः

वह || इ क त्विषि । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-अक०-सेट् ।)
इ क, वंहयति । त्विषि दीप्तौ । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

वह || ऐ ञ औ प्रापणे । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-द्विक०-अनिट् ।)
प्रापणमिह ञ्यन्तस्य रूपम् । ऐ, उह्यात् । ञ, वहति वहते भारं ग्रामं जनः प्रापयतीत्यर्थः । औ, अवाक्षीत् । अर्थान्तरे अकर्म्मकोऽयम् । यथा । जम्बूः सरिद्वहति सीमनि कम्बुकण्ठीति नैषधे । मन्दं मरुद्बहति गर्ज्जति वारिवाहः । इति महानाटके । ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः । इत्यादि सिद्ध्यर्थमोष्ठ्या- दिञ्च वहधातुं मन्येते वर्णदेशशरणदेवौ । वस्तुतस्तु बह्वाद्यसम्मतत्वादेवोष्ठ्यादिरनेनोपे- क्षितः । ववाह इति चण्डीप्रयोगस्य तु वाह ङ यत्ने इत्यस्मात् गणकृतानित्यत्वात् परस्मैपद- सिद्धिः । अनेकार्थत्वात् सुस्राव इत्यर्थः । अथवा वव इत्याह इत्येव व्याख्यानम् । इति दुर्गा- दासः ॥


शब्दकल्पद्रुमः

वहः || पुं, (वहति युगमनेनेति । वह + “गोचर- सञ्चरेति ।” ३ । ३ । ११९ । इति घप्रत्ययेन साधु ।)
वृषस्कन्धप्रदेशः । इत्यमरः ॥ (यथा, महाभारते । ४ । २ । २१ । “यस्य बाहू समौ दीर्धौ ज्याघातकठिनत्वचौ । दक्षिणे चैव सव्ये च गवामिव वहः कृतः ॥” वहतीति । वह् + अच् ।)
घोटकः । वायुः । इति मेदिनी । हे, ८ ॥ पन्थाः । इति त्रिकाण्ड- शेषः ॥ नदः । इति हेमचन्द्रः ॥ (वाहके, त्रि । यथा, मनुः । १ । ७६ । “आकाशात्तु विकुर्व्वाणात् सर्व्वगन्धवहः शुचिः । बलवान् जायते वायुः स वै स्पर्शगुणो मतः ॥”)



Correction: