वाचस्पत्यम्
वहति || पु० वह—अति । १ वायौ उणा० । २ गवि ३ सचिवे च मेदि० ।
शब्दकल्पद्रुमः
वहतिः || पुं, (वहतीति । वह् + “वहिवस्यर्त्तिभ्य- श्चित् ।” उणा० ४ । ६० । इति अतिः ।) वायुः । इत्युणादिकोषः । गौः । सचिवः । इति मेदिनी । ते, १४८ ॥