संस्कृत-शब्दकोशः

वहती वहन

वहतु

शब्दकल्पद्रुमः

वहतुः || पुं, (वह् + “एधिवह्योश्चतुः ।” उणा० १ । ७९ । इति चतुः ।)
पथिकः । वृषभः । इति मेदिनी । ते, १४९ ॥ (विवाहकाले कन्यायै देयवस्तु । यथा, ऋग्वेदे । १० । ८५ । १३ । “सूर्य्याया वहतुः प्रागात् सवितायमवासृजत् ।” “वहतुः कन्याप्रियार्थं दातव्यो गवादिपदार्थः ।” इति तद्भाष्ये सायणः ॥ विवाहः । यथा, ऋग्- वेदे । १० । ८५ । १४ । “यदश्विना पृच्छमाना वयातं त्रिचक्रेण वहतुं सूर्य्यायाः ॥” “सूर्य्याया वहतु विवाहमित्यर्थः ।” इति तद्- भाष्ये सायणः ॥ वहनकारणे, त्रि । यथा, ऋग्वेदे । ७ । १ । १७ । “उभा कृण्वतो वहतू मियेधे ।” “उभौ वहतू वहनहेतू स्तोत्रं शस्त्रञ्च कृण्वतः कुर्व्वन्तो मियेधे ।” इति तद्भाष्ये सायणः ॥)



Correction: