वाचस्पत्यम्
वहला || स्त्री वहलानि पुष्पादीनि मन्त्यस्य अर्श आद्यच् । १ शतपुष्पायां राजनि० । २ स्थूलैलायां भावप्र० ।
शब्दकल्पद्रुमः
वहला || स्त्री (वहलानि प्रचुराणि पुष्पाणि सन्त्यस्या इति । अर्शआदित्वादच् ।)
शत- पुष्पा । इति राजनिर्घण्टः ॥ स्थूलैला । इति भावप्रकाशः ॥ (अस्याः पर्य्यायो यथा, —
“एला तु वहला स्थूला मालेयं ताडकाफलम् ॥” इति वैद्यकरत्नमालायाम् ॥)