शब्दकल्पद्रुमः
वहित्रकं || क्ली (वहित्र + स्वार्थे कन् ।) जलयानम् । यथा, हेमचन्द्रे । “सांयात्रिकः पोतबणिक् यानपात्रं वहित्रकम् । वोहित्यं वहनं पोतः पोतवाहो नियामकः ॥”