शब्दकल्पद्रुमः
व(ब)हिर्द्वारप्रकोष्ठकः || पुं, (वहिर्द्वारस्य प्रको- ष्ठकः ।) गृहस्य द्वाराद्वहिः प्रकोष्ठम् । तत्प- र्य्यायः । प्रघाणः २ प्रघणः ३ अलिन्दः ४ । इत्यमरः । २ । २ । १२ ॥