वाचस्पत्यम्
वहुल is an alternate of बहुल. ब(व)हुल || त्रि० ब(व)हि—कुलच् नि० नलोपः । १ अनेकसंख्या- न्विते २ प्रचुरे । व(व)हूनि लाति ला—क । ३ अग्नौ ४ कृष्ण- पक्षे पु० मेदि० । “ब(व)हुलेऽपि गते निशाकरः” कुमारः । ५ आकाशे ६ सितमरिचे न० ७ कृष्णवर्णे ८ तद्वति त्रि० ९ एलायां १० नीलिकायां ११ गवि स्त्री मेदि० । १२ देवीभेदे स्त्री कालिकापु० २३ अ० अग्निदैवतत्वात् १३ कृत्तिकानक्षत्रे स्त्री ब० व० मेदि० ।