संस्कृत-शब्दकोशः

वह्निदमनी वह्निदीपिका

वह्निदीपक

वाचस्पत्यम्

वह्निदीपक ||‍ पु० वह्निं देहस्थवह्निं सेवनाद्दीपयति दीप- णिच्—ण्वुल् वह्निरिव दीप्यति दीप—ण्वुल् वा । १ कुसुम्भे शब्दर० । २ अग्न्युद्दीपके त्रि० । ३ अजमोदायाम् स्त्री राजनि० ।


शब्दकल्पद्रुमः

वह्निदीपकः || पुं, (वह्निं दीपयतीति । दीप + णिच् + ण्वुल् । वह्नेर्दीपक इति वा ।)
कुसुम्भम् । इति शब्दरत्नावली ॥ (गुणादिविशेषोऽस्य कुसुम्भशब्दे ज्ञेयः ॥)



Correction: