संस्कृत-शब्दकोशः

वह्निबधू वह्निभोग्य

वह्निबीज

शब्दकल्पद्रुमः

वह्निबीजं || क्ली (वह्नेर्बीजम् ।)
रंबीजम् । इति तन्त्रम् ॥ (वह्निदायकं बीजमस्य ।)
निम्बू- कम् । इति राजनिर्घण्टः ॥ (वह्नेर्बीजं वीर्य्यम् ।)
स्वर्णम् । इति हेमचन्द्रः ॥ तस्योत्पत्तिर्यथा, —
“एकदा सर्व्वदेवाश्च समूषुः स्वर्गसंसदि । तत्र कृत्वा च नृत्यञ्च गायन्त्यप्सरसां गणाः ॥ विलोक्य रम्भां सुश्रोणीं सकामो वह्निरेव च । पपात वीर्य्यं चच्छाद लज्जया वाससा तथा ॥ उत्तस्थौ स्वर्णपुञ्जश्च वस्त्रं क्षिप्त्वा ज्वलत्प्रभः । क्षणेन वर्द्धयामास स सुमेरुर्बभूव ह ॥ हिरण्यरेतसं वह्निं प्रवदन्ति मनीषिणः । इति ते कथितं सर्व्वं किं भूयः श्रोतुमिच्छसि ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे हिरण्योत्पत्ति- र्नाम १३० अध्यायः ॥



Correction: