वाचस्पत्यम्
वह्निमन्थ || पु० वह्नये वह्निजननाय मथ्यतेऽसौ मन्थ—कर्मणि घञ् । १ गणिकारीवृक्षे जटा० । ६ त० । २ वह्नेर्मन्थने राजनि० ।
शब्दकल्पद्रुमः
वह्निमन्थः || पुं, (वह्नये अग्न्युत्पादनार्थं मथ्यते इति । मन्थ + घञ् ।)
गणिकारिकावृक्षः । इति जटाधरः ॥ (अस्य पर्य्यायो यथा, —
“तेजोमन्थो हविर्मन्थो ज्योतिष्को पावकोऽरणिः । वह्निमन्थोऽग्निमन्थश्च मथनो गणिकारिका ॥” इति वैद्यकरत्नमालायाम् ॥)
अग्निमन्थः । इति राजनिर्घण्टः ॥