वाचस्पत्यम्
वह्निरेतस् || पु० वह्नौ निषिक्तं रेतो येन । १ शिवे वह्नौ हि निषिक्तात् शिववीर्य्यात् गङ्गादिसंक्रमेण कार्त्तिकेयो- त्पत्तिः पुराणप्रसिद्धम् । ६ त० । २ काञ्चने च ।
शब्दकल्पद्रुमः
वह्निरेताः || [स्], पुं, (वह्नौ रेतो यस्य । अग्नि- निषिक्तवीर्य्यत्वादेवास्य तथात्वम् ।)
शिवः । इति हलायुधः ॥