वाचस्पत्यम्
वह्निलोहक || न० वह्नेः प्रियं लोहं धातुः स्वार्थे क । कांस्ये राजनि० ।
शब्दकल्पद्रुमः
वह्निलोहकं || क्ली (वह्निदेवताकं लोहकम् ।) कांस्यम् । इति राजनिर्घण्टः ॥