शब्दकल्पद्रुमः
वह्निशिखा || स्त्री (वह्निरिव शिखा यस्याः ।)
फलिनी । इति धरणिः ॥ कलिकारी । धातकी । इति राजनिर्घण्टः ॥ (लाङ्गलिकी । लाङ्गलिया विष इति ख्याता । तत्पर्य्यायो तथा, —
“गौरी लाङ्गलिकी दीप्ता हलिनी गर्भघातिनी । अग्निजिह्वेन्द्रपुष्पाग्निमुखी वह्निशिखा च सा ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)