वाचस्पत्यम्
वह्निसख || पु० ६ त० । १ वायौ । देहस्थवह्नेरुद्वीपके २ जीरके राजनि० ।
शब्दकल्पद्रुमः
वह्निसखः || पुं, (वह्नेर्जठराग्नेः सखा । टच् समासे ।) जीरकः । इति राजनिर्घण्टः ॥ (वह्नेः सखा ।) वायुः । इति वह्निमित्रशब्ददर्शनात् ॥