संस्कृत-शब्दकोशः

वाक्छल वाक्पथ

वाक्पति

वाचस्पत्यम्

वाक्पति ||‍ पु० ६ त० । १ वृहस्पतौ अमरः २ पुष्यनक्षत्रे च वाचः पतिरिव । ३ निर्दोषोद्धतवचनयुक्ते रायमुकुटः ।


शब्दकल्पद्रुमः

वाक्पतिः || त्रि (वाचां पतिरिव पटुत्वात् ।)
उद्दामवचनः । इति रायमुकुटः ॥ अनवद्यो- द्यमादिपटुवचनः । इति भरतः ॥ स्वबुद्ध्या वाक्यरचकः । इति सारसुन्दरी ॥ पटुवचनः । इति पदार्थकौमुदी ॥ व्यक्तवाग्जनः । इति नीलकण्ठः ॥ तत्पर्य्यायः । वागीशः २ । इत्य- मरः ॥ अनवद्योद्यमवचाः ३ । इति जटाधरः ॥ “वाग्मी वाग्मिर्वावदूको वाचो युक्तिपटुस्तथा । वागीशो वाक्पतिश्चेति षडेते सुष्ठुवक्तरि ॥” इति शब्दरत्नावली ॥ (यथा, हरिवंशे । २१५ । ३४ । “सम्भवं सर्व्वलोकस्य विदधाति स वाक्पतिः ॥”)


शब्दकल्पद्रुमः

वाक्पतिः || पुं, (वाचां पतिः ।)
बृहस्पतिः ॥ इति शब्दरत्नावली ॥ (यथा, बृहत्संहितायाम् । ८ । १५ । “उदगारोग्यसुभिक्षक्षेमकरो वाक्पतिश्चरन् भानाम् ॥”)



Correction: