वाक्य
वागर
वाक्ष
वाचस्पत्यम्
वाक्ष || स्पृहायां भ्वा० पर० सक० सेट् इदित् । वाङ्क्षति अवाङ्क्षीत् ।
शब्दकल्पद्रुमः
वाक्ष || इ काङ्क्षे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-सक०-सेट् ।)
इ, वाङ्क्षति । नमध्यपाठे- नैवेष्टसिद्धौ इदनुबन्धो वेदेषूच्चारणभेदार्थः । इति तट्टीकायां दुर्गादासः ॥