वाचस्पत्यम्
वाक्य || न० वच—ण्यत् चस्य कः । “वाक्यं स्याद् योग्यताका- ङ्क्षासत्तियुक्तः पदोच्चयः” इत्युक्ते १ पदसंघे सा० द० । २ स्वार्थ- बोधसमाप्ते पदसमुदाये वैयाकरणाः ।
शब्दकल्पद्रुमः
वाक्यं || क्ली (उच्यते इति । वच् + ण्यत् । “चजोः कु घिण्यतोः ।” ७ । ३ । ५२ । इति कुत्वम् । शब्दसंज्ञात्वात् “वचोऽशब्दसंज्ञायाम् ।” ७ । ३ । ६७ । इति निषेधो न ।)
पदसमुदायः । इति व्याकरणम् ॥ तिङ्न्तचयः । सुबन्तचयः । कारकान्विता क्रिया । इत्यमरः । इह श्रुति- लोकयोस्त्रिविधं निरुक्तं वाक्यमुक्तम् । तिङ्- सुबन्तयोश्चयः समुदायः कारकान्विता क्रिया च वाक्यम् । तिङ्शब्देन तिबादीनि साशीति- शतसंख्यकानि वचनानि उच्यन्ते । एवं सुप्- शब्देन स्यादीन्येकविशतिरुच्यन्ते द्वन्द्वात् परं यः श्रूयते लभतेऽसौ प्रत्येकं अभिसम्बन्धमित्यन्त- शब्द उभयोरपि सम्बध्यते । अत्र तिङन्तसमूहो यथा । पचति भवति पाको भवति इत्यर्थः । एतच्छान्दसमेव । सुबन्तसमूहो यथा । प्रकृति- सिद्धमिदं हि महात्मनाम् । धात्वर्थः क्रिया कारकैः कर्त्त्रादिभिरन्विता सम्बन्धार्था कारका- न्विता अन्वितत्वञ्च क्रियाकारकाणां आकाङ्क्षा- योग्यतासन्निधिवशात् ज्ञेयम् । तिङ्सुबन्तचया- त्मकेऽपि सम्बद्धार्थता बोध्या असम्बद्धार्थस्याप्रयो- गात् अतएव परस्पराभिसम्बन्धः पदसमूहो वाक्यमिति वृद्धाः । कारकान्विता क्रिया यथा । देवदत्तो ग्रामं गच्छति । इति तट्टीकायां भरतः ॥ * ॥
वाक्यस्वरूपमाह । “वाक्यं स्यात् योग्यताकाङ्क्षासत्तियुक्तः पदो- च्चयः । वाक्योच्चयो महावाक्यमित्थं वाक्यं द्बिधा मतम् ॥” उक्तञ्च । “स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः संभूय जायते ॥” इति ॥ अत्र वाक्यं यथा । शून्यं वासगृहमित्यादि । महावाक्यं यथा । रामायणमहाभारतरघु- वंशादिः । इति साहित्यदर्पणे २ परिच्छेदः ॥ * ॥
अप्रियवाक्यभाषणनिषेधो यथा, —
“न हिंस्यात् सर्व्वभूतानि नानृतञ्च वदेत् क्वचित् । नाहितं नाप्रियं वाक्यं न स्तेनः स्यात् कदा- चन ॥ * ॥
पाषण्डादिभिर्भाषणनिषेधो यथा, —
“पाषण्डिनो विकर्म्मस्थान् वामाचारांस्तथैव च । पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्च्च- येत् ॥” इति कौर्म्मे उपविभागे १६ अध्यायः ॥ * ॥
शुभाशुभवाक्यानि यथा, —
“नैव राज्येन महता न वै वार्थस्य राशिभिः । प्राप्यते ज्ञानकथनं परलोकसुभाषितम् ॥ स्वर्गापवर्गसिद्ध्यर्थभाषितं यत् सुशोभनम् । वाक्यं मुनिवरैः शान्तैस्तद्विज्ञेयं सुभाषितम् ॥ रागद्वेषानृतक्रोधकामतृष्णानुसारि यत् । वाक्त्यं निरयहेतुत्वात् तदभाषितमुच्यते ॥ संस्कतेनापि किं तेन मृदुना ललितेन वा । अविद्या रागवाक्येन संसारक्लेशहेतुना ॥ यत् श्रुत्वा जायते पुण्यं रागादीनाञ्च संक्षयः । निरुद्धमपि तद्वाक्यं विज्ञेयमतिशोभनम् ॥” इति वह्निपुराणे वैष्णवधर्म्मे शुद्धिव्रतनामा- ध्यायः ॥ (अत्र वाक्यदोषो यथा, —
“वाक्यदोषो नाम यथा खल्वस्मिन्नर्थे न्यूनमधि- कमनथकमपार्थकं विरुद्धञ्चेति । तत्र हेतूदा- हरणोपनयनिगमनानामन्यतमेनापि न्यूनं न्यूनं भवति यद्वा बह्वपदिष्टहेतुकमेकेन साध्यत हेतुना तच्च न्यूनं एतानि ह्यन्तरेण प्रकृतोऽप्यर्थः ॥ प्रण- श्येत ।” इति चरके विमानस्थानेऽष्टमेऽध्याये ॥)