शब्दकल्पद्रुमः
वागारुः || त्रि (वाचि आशावाक्ये आरुः कर्कट इव मर्म्मच्छेदकत्वात् ।) आशाहन्ता । यथा, “आशां बलवतीं दत्त्वा यो हन्ति पिशुनो जनः । स जीवासोऽपि वागारुद्रुणो दानुस्तु दातरि ॥” इति शब्दमाला ॥