संस्कृत-शब्दकोशः

वागुरावृत्ति वाग्गुद

वागुरिक

वाचस्पत्यम्

वागुरिक ||‍ पु० वागुरा प्रहरणं यस्य वागुरयाचरति वा टक् । व्याधे अमरः ।


शब्दकल्पद्रुमः

वागुरिकः || पुं, (वागुरया चरतीति । वागुरा + “चरति ।” ४ । ४ । ८ । इति ठक् ।)
व्याधः । वागुरया मृगादीन् बध्नातिः यः । इत्यमरः । २ । १५ । ४ ॥ (यथा, रघुः । ९ । ५३ । “श्वगणिवागुरिकैः प्रथमास्थितं व्यपगतानलदस्यु विवेश सः ॥”)



Correction: