संस्कृत-शब्दकोशः

वागुरिक वाग्गुलि

वाग्गुद

वाचस्पत्यम्

वाग्गुद ||‍ पुंस्त्री० पक्षिभेदे त्रिका० गुडहरके तज्जातिप्राप्ति- र्मनुनोक्ता “गोधा गां वाग्गुदो गुडम्” हत्वेति शेषः


शब्दकल्पद्रुमः

वाग्गुदः || पुं, (वाचा गोदते क्रीडतीवेति । गुद् क्रीडायाम् + कः ।)
पक्षिविशेषः । इति त्रिकाण्डशेषः ॥ एतद्योनिकारणं यथा, —
“कौषेयं तित्तिरिहृत्वा क्षौमं हृत्वा तु दर्दुरः । कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् ॥” इति मानवे १२ अध्यायः ॥



Correction: