संस्कृत-शब्दकोशः

भृष्टि भेक

भॄ

भॄ भर्त्सने भरणे च


गणः- क्र्यादिः
कर्मकः-सकर्मकः
इट्-सेट्
पदम्-परस्मैपदम्
कर्तरि लटि- भृणाति

अर्थ−
१. तिरस्कार गर्नु, दुत्कार्नु,
२. संरक्षण गर्नु, पालन गर्नु ।

कृदन्तरूपमाला

  • 1“भॄ भर्त्सने” 2 प्वादिः, ल्वादिश्च।
  • ‘--भरणे’ इत्यप्येके।
  • ‘भॄ भर्जने च’ इति क्षीरस्वामी।
  • ‘ॠदन्तस्य भृणातीति भर्त्सने श्नि, तथा भरः।।’ 3 इति देवः।
  • तत्र भरणार्थे, भर्जनार्थे च सकर्मकोऽयमिति ज्ञेयम्।
  • भारकः-रिका, भारकः-रिका, बुभूर्षकः-र्षिका, बिभरिषकः-बिभरीषकः-षिका, बोभुरकः-रिका;
  • इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना जौहोत्यादिकपिपर्तिवत् 4 ज्ञेयानि।
  • 5 भृणन् 6 -ती, 7 भूर्णम्-भूर्णः-भूर्णवान्, भावेऽप्प्रत्यये भरः इति रूपाण्यस्य भवन्तीति विशेषः।
  • 8

प्रासङ्गिक्यः

  • ↑ (११७६)
  • ↑ (९-क्र्यादिः-१४९१। अक। सेट्। पर।)
  • ↑ (श्लो-२८)
  • ↑ (१०५५)
  • ↑ ३। शतरि, ‘क्र्यादिभ्यः--’ (३-१-८१) इति श्ना विकरणप्रत्ययः। तस्य शित्त्वेन सार्वधातुकत्वम्। तेन ङित्त्वात् गुणवृद्धिनिषेधः। ‘श्नाऽभ्यस्तयोरातः’ (६-४-११२) इत्याकारलोपः। ‘प्वादीनां ह्रस्वः’ (७-३-८०) इति प्रकृतेः ह्रस्वः। ‘ऋवर्णा- न्नस्य--’ (वा। ८-४-१) इति णत्वम्।
  • ↑ B। ‘तत्र स्परीतुमनसं रुषमावृणन्तम् अम्बष्ठमुन्मदभरं स भृणन् बभाषे।’ धा। का। ३। ७।
  • ↑ ४। निष्ठायाः कित्त्वात्, ‘श्र्युकः क्किति’ (७-२-११) इतीण्निषेधे, ‘उदोष्ठ्यपूर्वस्य’ (७-१-१०२) इत्युकारे, रपरत्वे, दीर्घे णत्वे च रूपमेवमिति ज्ञेयम्।
  • ↑ [पृष्ठम्०९७६+ ३२]



Correction: