संस्कृत-शब्दकोशः

वाग्दुष्ट वाग्देवता

वाग्दुष्ठ

शब्दकल्पद्रुमः

वाग्दुष्ठः || त्रि (वाचा शुद्धेऽपि वस्तुनि अशुद्ध- रूपत्वदुर्व्वाक्येन दुष्टः ।)
वाचा दोषयुक्तः । यथा, —
“वाग्भावदुष्टाश्च तथा दुष्टैश्चोपहतास्तथा । वाससा चावधूतानि वर्ज्ज्यानि श्राद्धकर्म्मणि ॥” इति श्राद्धतत्त्वम् ॥ * ॥
तदन्नभक्षणप्रायश्चित्तम् । तत्र शङ्खः । “वाग्दुष्टं भावदुष्टञ्च भाजने भावदूषिते । भुक्त्वान्नं ब्राह्मणः पश्चात् त्रिरात्रन्तु व्रती भवेत् ॥” एतदभ्यासे व्रती यावकेन तत्र द्वादशपणा देयाः । इति प्रायश्चित्तविवेकः ॥



Correction: