संस्कृत-शब्दकोशः

वाङ्क वाङ्मय

वाङ्मती

वाचस्पत्यम्

वाङ्मती ||‍ स्त्री “हिमाद्रेस्वङ्गशिखरात् प्रोद्भूता वाङ्मती नदी” इत्युक्ते नदीभेदे । सा च मिथिलादेशसन्नि- कृष्टतया वहति ।


शब्दकल्पद्रुमः

वाङ्मती || स्त्री (स्तुतिरूपा वागस्त्यस्या इति । वाच् + मतुप् । ङीप् ।)
नदीविशेषः । यथा, —
“हिमाद्रेस्तुङ्गशिखरात् प्रोद्भूता वाङ्मती नदी । भागीरथ्याः शतगुणं पवित्रं तज्जलं स्मृतम् ॥ तत्र स्नात्वा हरेर्लोकानुपस्पृश्य दिवस्पतेः । त्यक्त्वा देहं नरा यान्ति मम लोकं न संशयः ॥” इति वाराहे गोकर्णमाहात्म्ये जलेश्वरमाहात्म्य- वणननामाध्यायः ॥



Correction: