वाचस्पत्यम्
वाङ्मय || त्रि० वाक्स्वरूपम् मयट् चस्य कः तस्य ङः । १ वाक्य- स्वरूपे शास्त्रे । २ वाक्यजनिते पापभेदे च । “पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्वशः । असम्बद्धप्रलापश्च वाङ्मयं स्याच्चतु- र्विधम्” मनुः । तथा “परुषवचनमपवादः पैशुन्यमनृतं वृथालापो निष्ठुरवचनम् वाङ्मयानि षट् । परेषां देश- जातिकुलविद्याशिल्परूपवृत्ताचारपरिच्छदशरीरकर्मजी- विनां प्रत्यक्षदोषवचनं परुषम । “यच्चान्यत् क्रोधस- न्तापत्राससंजननं वचः । परुषं तच्च विज्ञेयं यच्चान्यच्च तथाविघम् । चक्षुष्मानिति लुप्ताक्षं चाण्डालं ब्राह्म- णेति च । प्रशंसानिन्दनं द्वेषात् परुषान्न विशिष्यते” । तेषामेव परुषवचनानामपरोक्षमुदाहरणम् अपवादः । गुरुनृपतिवन्धुभ्रातृमित्रसकाशे अर्थोपघातार्थं दोषो- पाख्यानं पैशुन्यम् । अनृतं द्विविधं असत्यमसंवाद- श्चेति “देशराष्ट्रप्रसङ्गाच्च परार्थपरिजल्पनात् । नर्महास- प्रसङ्गाच्च भाषणं व्यर्थभाषणम् । गुह्याङ्गामेध्यसंज्ञानां भाषणं निष्ठुरं विदुः । यदन्यद् वा वचो नीचस्त्रीपुंसो- र्मिथुनाश्रयम् । इत्येवं षड्विकल्पस्य दुष्टवाक्यस्य भाष- णात् । इह चामुत्र च क्रूरमनर्थं प्रतिपद्यते” । प्रशं- सयानिन्दनं प्रशंसानिन्दनम् । अत्र चतुर्विधषड्विधयो- रविरोधः । समक्षत्वासमक्षत्वभेदानादरेण पारुष्याप- वादयोरैक्यात् निष्ठुरस्य परुषान्तर्भावाच्च । असम्बद्ध- प्रलापव्यर्थभाषणयोः पर्य्यायत्वान्नार्थान्तरम्” ति० त० ।
शब्दकल्पद्रुमः
वाङ्मयं || त्रि (वाक्स्वरूपम् । वाच् + मयट् ।)
वाक्यात्मकम् । यथा, —
“न्यरस्तजभ्नगैर्लान्तैरेभिर्द्दशभिरक्षरैः । समस्तं वाङ्मयं व्याप्तं त्रैलोक्यमिव विष्णुना ॥” अपि च । “पद्यं गद्यमिति प्राहुर्व्वाङ्मयं द्बिविधं बुधाः । प्रागुक्तलक्षणं पद्यं गद्यं संप्रति गद्यते ॥” पद्यं यथा, —
“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा । वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत् ॥ सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा । समं समचतुष्पादं भवत्यर्द्धसमं पुनः ॥ आदिस्तृतीयवद्यस्य पादस्तूर्य्यो द्बितीयवत् । भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम् ॥” गद्यं यथा । “अपादः पदसन्तानो गद्यं तत्तु त्रिधा मतम् । चूर्णकोत्कलिकाप्रायवृत्तगंन्धिप्रभेदतः ॥ अकठोराक्षरं स्वल्पसमासं चूर्णकं विदुः । तद्धि वैदर्भरीतिस्थं गद्यं हृद्यतरं भवेत् ॥ भवत्युत्कलिकाप्रायं समासाढ्यं दृढाक्षरम् । वृत्तैकदेशसम्बन्धाद्वृत्तगन्धि पुनः स्मृतम् ॥” इति छन्दोमञ्जरी ॥ * ॥
वाङ्मयपापानि यया, —
“पारुष्यमनृतञ्चैव पैशुन्यञ्चापि सर्व्वशः । असम्बन्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥” तथा परुषवचनमपवादः पैशुन्यमनृतं वृथा- लापो निष्ठुरवचनं इति वाङ्मयानि षट् । परेषां देशजातिकुलविद्याशिल्परूपवृत्ताचार- परिच्छदशरीरकर्म्मजीविनां प्रत्यक्षदोषवचनं परुषम् । “यच्चान्यत् क्रोधसन्तापत्राससंजननं वचः । परुषं तच्च विज्ञेयं यच्चान्यच्च तथाविधम् ॥ चक्षुष्मानिति लुप्ताक्षं चाण्डालं ब्राह्मणेति च । प्रशंसानिन्दनं द्वेषात् परुषान्न विशिष्यते ॥” तेषामेव परुषवचनानां परोक्षमुदाहरणं अपवादः । गुरुनृपतिबन्धुभ्रातृमित्रसकाशे अर्थोपघातार्थं दोषोपाख्यानं पैशुन्यम् । अनृतं द्विविधं असत्यमसंवादश्चेति । “देशराष्ट्रप्रसङ्गाच्च परार्थपरिकल्पनात् । नर्म्महासप्रसङ्गाच्च भाषणं व्यर्थभाषणम् ॥ गुह्याङ्गामेध्यसंज्ञानां भाषणं निष्ठुरं विदुः । यदन्यद्बा वचो नीचस्त्रीपुंसोर्मिथुनाश्रयम् ॥ इत्येवं षड्विकल्पस्य दुष्टवाक्यस्य भाषणात् । इह चामुत्र च क्ररमनर्थं प्रतिपद्यते ।” प्रशंसया निन्दनं प्रशंसानिन्दनम् । अत्र चतु- र्व्विधषड्विधयोरविरोधः । समक्षत्वासमक्षत्व- भेदानादरेण पारुष्पापवादयोरैक्यात् निष्ठुरस्य परुषान्तर्भावाच्च । असम्बद्धप्रलापव्यर्थभाष- णयोः पर्य्यायत्वान्नार्थान्तरम् । इति तिथ्यादि- तत्त्वम् ॥