संस्कृत-शब्दकोशः

वाङ्मुख वाचक

वाच

वाचस्पत्यम्

वाच ||‍ पुंस्त्री० वच—णिच—अच् । (वाचा) इति ख्याते मत्स्य- भेदे राजवल्लभः स्त्रियां ङीष् ।


शब्दकल्पद्रुमः

वाचः || पुं, (वाचयति गुणानिति । वच् + णिच् + अच् ।)
मत्स्यविशेषः । वाचा इति भाषा ॥ (यथा, —
“ईलिषो जितपीयूषो वाचो वाचामगोचरः । रोहितो नो हितः प्रोक्तो मद्गुरो मद्गुरोः प्रियः ॥” इत्युद्भटः ॥)
अस्य गुणाः । स्वादुत्वम् । गुरुत्वम् । स्निग्धत्वम् । श्ले ष्मलत्वम् । वातपित्तनाशित्वञ्च । इति राज- वल्लभः ॥



Correction: