संस्कृत-शब्दकोशः

वाचनिक वाचसाम्पति

वाचंयम

वाचस्पत्यम्

वाचंयम ||‍ त्रि० वाचां यच्छति वाचा + यम—ख मुम् ह्रस्वस । १ मितभाषिणि । २ मौनावलम्बिनि मुनौ पु० अमरः ।


शब्दकल्पद्रुमः

वाचंयमः || पुं, (वाचो वाक्यात् यच्छति विर- मतीति । यम उपरमे + “वाचि यमो व्रते ।” ३ । २ । ४० । इति खच् । “वाचंयमपुरन्दरौ च ।” ६ । ३ । ६९ । इति अमन्तत्वं निपा- त्यते ।)
मुनिः । इत्यमरः । २ । ७ । ४२ ॥ मौन- व्रती । इति केचिदिति भरतः ॥ (यथा, छान्द- ग्योपनिषदि । ५ । २ । ८ । “वाचंयमोऽप्रसाहः स यदि स्त्रियं पश्येत् समृद्धं कर्म्मेति विद्यात् ॥”)



Correction: