वाचस्पत्यम्
वाचस्पति || पु० ६ त० अलुक्समा० । १ वृहस्पतौ । २ पुष्यन्क्षत्रे च
शब्दकल्पद्रुमः
वाचस्पतिः || पुं, (वाचः पतिः । “षष्ठ्याः पति- पुत्त्रेति ।” ८ । ३ । ५३ । इति षष्ठीविसर्गस्य सः ।)
बृहस्पतिः । इत्यमरः । १ । ३ । २४ ॥ (यथा, कुमारे । २ । ३० । “वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥” शब्दप्रतिपालके, त्रि । यथा, ऋग्वेदे । १० । १६६ । ३ । “वाचस्पते निषेधे मान्यथा मदधरं वदान् ॥” “हे वाचस्पते वाचः शब्दस्य पालयितर्देव ॥” इति तद्भाष्ये सायणः ॥)