संस्कृत-शब्दकोशः

वाचिकहारक वाचोयुक्तिपटु

वाचोयुक्ति

वाचस्पत्यम्

वाचोयुक्ति ||‍ स्त्री ६ त० अलुक्स० । १ वाचादर्शितयुक्तौ २ वाक्यनैर्मल्ये च ।


शब्दकल्पद्रुमः

वाचोयुक्तिः || त्रि (वाचि वाक्ये युक्तिर्यस्य ।)
वाग्मी । इत्यमरटीकायां रामाश्रमः ॥ (स्त्री, वाचो वचसो युक्तिः । “वाग्दिक्पश्यद्भ्यो युक्तिदण्ड- हरेषु ।” ६ । ३ । २१ । इत्यस्य वार्त्तिकोक्त्या षष्ठ्या अलुक् । वाग्दर्शितन्यायः ॥)



Correction: