संस्कृत-शब्दकोशः

वाच्य वाजपेय

वाज

वाचस्पत्यम्

वाज ||‍ न० वज—घञ् । १ अन्ने २ घृते ३ जले ४ यज्ञे च मेदि० । ५ शरपक्षे अमरः ६ वेगे पु० ८ निस्वने ९ पक्षे पु० मेदि० १० मुनौ पु० विश्वः ।


शब्दकल्पद्रुमः

वाजं || क्ली घृतम् । (यथा, वाजसनेयसंहिता- याम् । ९ । १ । “वाचस्पतिर्वाजं नः स्वदतु ॥”)
यज्ञः । अन्नम् । (यथा, ऋग्वेदे । ४ । २२ । ३ । “यो देवो देवतमो जायमानो महो वाजेभिर्महद्भिश्च शुष्मैः ॥” “वाजेभिरन्नैः ।” इति तद्भाष्ये सायणः ॥)
वारि । इति मेदिनी । जे, १४ ॥ (संग्रामः । यथा, ऋग्वेदे । ५ । ३५ । १ । “अस्मभ्यं चर्षणीसहं सस्निं वाजेषु दुष्टरम् ॥” बलम् । यथा, तत्रैव । ५ । ८५ । २ । “वनेषु व्यन्तरिक्षं ततान वाजमर्व्वत्सु पय उस्रियासु ॥”)


शब्दकल्पद्रुमः

वाजः || पुं, शरपक्षः । इत्यमरः । २ । ८ । ८७ ॥ (यथा, भागवते । १० । ५९ । १६ । विचित्रवाजैर्निशितैः शिलीमुखैः ॥”)
निस्वनः । पक्षः । वेगः । इति मेदनी । जे, १६ ॥ मुनिः । इति विश्वः ॥



Correction: