वाचस्पत्यम्
वाजसनेय || पु० वाजसनेः सूर्य्यस्य छात्रः ढक् । याज्ञ- वल्क्ये “आदित्यानीमानि शुक्लानि यजूंपि वाजसने- येन याज्ञवल्क्येनाख्यायन्ते” वृहदारण्य० श्रुतिः । अस्यार्थः । आदित्यादधीतान्यादित्यानि शुक्लानि शुद्धानि । इयमत्र आख्यायिका । व्यासशिष्यो वैशम्पायनो याज्ञवल्क्यादिभ्यः स्वशिष्येभ्यो यजु- र्वेदमध्यापयत् । तत्र दैवात् केनापि हेतुना क्रुद्धो वैशम्पायनो याज्ञवल्क्यं प्रत्युवाच मदधीतं त्यजेति । स योगसामर्थ्यान् मूर्तां विद्यां विधायोद्ववाम । वान्तानि यजूंपि गृह्णीतेति गुरूक्ता अन्ये वैशम्पायन- शिष्यास्तित्तिरयो भूत्वा यजूंष्यभक्षन् । तानि यजूषि वुद्धिमालिन्यात् कृष्णानि जातानि । ततो दुखितो याज्ञवल्क्यः सूर्य्यमाराध्यान्यानि शक्लानि यजूषि पाप्तवान् । तानि च जाबालगौधेयकाण्वमाध्यन्दिनादिभ्यः पञ्चदशशिष्येभ्यः पाठितवान्” वेददी० । “एवंस्ततः स भगवाम् वाजिरूपधरो रविः । यजूंष्ययातयामानि सुनयेऽदात् प्रसादतः । यजुर्भिरकरोच्छाखा दशपञ्चशतै- र्विभुः । जगृहुर्वाजसन्यस्ताः । काण्वमाध्यन्दिनादयः” भाग० १२ । ६ । ६७ श्लो०
शब्दकल्पद्रुमः
वाजसनेयः || पुं, जनमेजयकृतवेदार्थग्रन्थः । स तु वैशम्पायनशापादुच्छन्नः । इति मत्स्यपुराणम् ॥ (वाजसनेः सूर्य्यस्य छात्रः । वाजसनि + ढक् । याज्ञवल्क्यः । यथा, बृहदारण्यके । “आदित्या- नीमानि शुक्लानि यजूंषि वाजसनेयेन याज्ञ- वल्क्येनाख्यायन्ते ॥”)