शब्दकल्पद्रुमः
वाजिशाला || स्त्री (वाजिनां शाला गृहम् ।) घोटकगृहम् । आस्तवल् इति आरवी भाषा ॥ तत्पर्य्यायः । मन्दुरा २ । इत्यमरः ॥ (यथा, राजतरङ्गिण्याम् । ४ । १६६ । “काम्बोजानां वाजिशाला जायन्ते स्म हयोज्- झिताः ॥”)