शब्दकल्पद्रुमः
वाञ्छितं || त्रि (वाञ्छ + क्तः ।)
अभिलषितम् । यथा, —
“अविच्छेदं पठेद्धीमान् ध्यात्वा देवीं सरस्वतीम् । शुक्लाम्बरधरां देवीं शुक्लाभरणभूषिताम् ॥ वाञ्छितं फलमाप्नोति स लोके नात्र संशयः । इति ब्रह्मा स्वयं प्राह सरस्वत्याः स्तवं शुभम् ॥” इति तन्त्रसारः ॥